Taittiriya Upanishad (Brahmānanda Valli, Chapter 2, Verse 1)
“तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १॥ इति प्रथमोऽनुवाकः ॥” Transliteration “tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ…